ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Ganesha / Stotram
GANESHA · STOTRAM

Ganesha Ashtakam

గణేశాష్టకమ్

Ganesha Ashtakam is a traditional Ganesha devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

श्रीगणेशाय नमः । ॐ अस्य श्रीसङ्कष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता, सङ्कष्टहरणार्थ जपे विनियोगः । ॐ ॐ ॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं त्रैगुण्यातीतनीलं कलयति मनसस्तेज-सिन्दूर-मूर्तिम् । योगीन्द्रैर्ब्रह्मरन्ध्रैः सकल-गुणमयं श्रीहरेन्द्रेण सङ्गं गं गं गं गं गणेशं गजमुखमभितो व्यापकं चिन्तयन्ति ॥ १॥ वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्तशुण्डं क्रं क्रं क्रं क्रोधमुद्रा-दलित-रिपुबलं कल्पवृक्षस्य मूले । दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं धं धं धं धारयन्तं धनदमतिघियं सिद्धि-बुद्धि-द्वितीयम् ॥ २॥ तुं तुं तुं तुङ्गरूपं गगनपथि गतं व्याप्‍नुवन्तं दिगन्तान् क्लीं क्लीं क्लीं कारनाथं गलितमदमिलल्लोल-मत्तालिमालम् । ह्रीं ह्रीं ह्रीं कारपिङ्गं सकलमुनिवर-ध्येयमुण्डं च शुण्डं श्रीं श्रीं श्रीं श्रीं श्रयन्तं निखिल-निधिकुलं नौमि हेरम्बबिम्बम् ॥ ३॥ लौं लौं लौं कारमाद्यं प्रणवमिव पदं मन्त्रमुक्‍तावलीनां शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम् । डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च ॥ ४॥ हुं हुं हुं हेमवर्णं श्रुति-गणित-गुणं शूर्पकणं कृपालुं ध्येयं सूर्यस्य बिम्बं ह्युरसि च विलसत् सर्पयज्ञोपवीतम् । स्वाहा हुं फट् नमोऽन्तैष्ठ-ठठठ-सहितैः पल्लवैः सेव्यमानं मन्त्राणां सप्तकोटि-प्रगुणित-महिमाधारमीशं प्रपद्ये ॥ ५॥ पूर्वं पीठं त्रिकोणं तदुपरि-रुचिरं षट्कपत्रं पवित्रं यस्योर्ध्वं शुद्धरेखा वसुदल कमलं वा स्वतेजश्चतुस्रम् । मध्ये हुङ्कार बीजं तदनु भगवतः स्वाङ्गषट्कं षडस्रे अष्टौ शक्‍तीश्च सिद्धीर्बहुलगणपतिर्विष्टरश्चाऽष्टकं च ॥ ६॥ धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रामहेशम् । एवं यो भक्‍तियुक्‍तो जपति गणपतिं पुष्प-धूपा-ऽक्षताद्यै- र्नैवेद्यैर्मोदकानां स्तुतियुत-विलसद्-गीतवादित्र-नादैः ॥ ७॥ राजानस्तस्य भृत्या इव युवतिकुलं दासवत् सर्वदास्ते लक्ष्मीः सर्वाङ्गयुक्‍ता श्रयति च सदनं किङ्कराः सर्वलोकाः । पुत्राः पुत्र्यः पवित्रा रणभुवि विजयी द्यूतवादेऽपि वीरो यस्येशो विघ्नराजो निवसति हृदये भक्‍तिभाग्यस्य रूद्रः ॥ ८॥ ॥ इति सङ्कष्टहरणं गणेशाष्टकं सम्पूर्णम् ॥
Reading & reflection

Ganesha hymns are often read at the beginning of a new undertaking. Settle your attention before reciting, and allow a brief pause at the end of each verse.

Text edition & attribution

Complete text of गणेशाष्टकम् on Sanskrit Wikisource, revision 56887, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Ganesha readings