ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Vividha / Stotram
VIVIDHA · STOTRAM

Ganga Ashtakam

గఙ్గాష్టకమ్

Ganga Ashtakam is a traditional Vividha devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

अथ श्रीमद्वामीकिविरचितं गङ्गाष्टकम् ॥ मातः शैलसुता-सपत्नि वसुधा-शृङ्गारहारावलि स्वर्गारोहण-वैजयन्ति भवतीं भागीरथीं प्रार्थये । त्वत्तीरे वसतः त्वदम्बु पिबतस्त्वद्वीचिषु प्रेङ्खतः त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः ॥ १॥ त्वत्तीरे तरुकोटरान्तरगतो गङ्गे विहङ्गो परं त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः । नैवान्यत्र मदान्धसिन्धुरघटासङ्घट्टघण्टारण- त्कारस्तत्र समस्तवैरिवनिता-लब्धस्तुतिर्भूपतिः ॥ २॥ उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वाऽ- वारीणः स्यां जनन-मरण-क्लेशदुःखासहिष्णुः । न त्वन्यत्र प्रविरल-रणत्किङ्किणी-क्वाणमित्रं वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः ॥ ३॥ काकैर्निष्कुषितं श्वभिः कवलितं गोमायुभिर्लुण्टितं स्रोतोभिश्चलितं तटाम्बु-लुलितं वीचीभिरान्दोलितम् । दिव्यस्त्री-कर-चारुचामर-मरुत्संवीज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथी स्वं वपुः ॥ ४॥ अभिनव-बिसवल्ली-पादपद्मस्य विष्णोः मदन-मथन-मौलेर्मालती-पुष्पमाला । जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः क्षपित-कलिकलङ्का जाह्नवी नः पुनातु ॥ ५॥ एतत्ताल-तमाल-साल-सरलव्यालोल-वल्लीलता- च्छत्रं सूर्यकर-प्रतापरहितं शङ्खेन्दु-कुन्दोज्ज्वलम् । गन्धर्वामर-सिद्ध-किन्नरवधू-तुङ्गस्तनास्पालितं स्नानाय प्रतिवासरं भवतु मे गाङ्गं जलं निर्मलम् ॥ ६॥ गाङ्गं वारि मनोहारि मुरारि-चरणच्युतम् । त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥ ७॥ पापापहारि दुरितारि तरङ्गधारि शैलप्रचारि गिरिराज-गुहाविदारि । झङ्कारकारि हरिपाद-रजोपहारि गाङ्गं पुनातु सततं शुभकारि वारि ॥ ८॥ गङ्गाष्टकं पठति यः प्रयतः प्रभाते वाल्मीकिना विरचितं शुभदं मनुष्यः । प्रक्षाल्य गात्र-कलिकल्मष-पङ्क-माशु मोक्षं लभेत् पतति नैव नरो भवाब्धौ ॥ ९॥ ॥ इति वाल्मीकिविरचितं गङ्गाष्टकं सम्पूर्णम् ॥
Reading & reflection

This traditional text belongs to a broader collection of sacred readings. Read the opening and closing portions alongside the numbered verses.

Text edition & attribution

Complete text of गङ्गाष्टकम् (वाल्मीकिकृतम्) on Sanskrit Wikisource, revision 90917, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Vividha readings