ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Durga / Stotram
DURGA · STOTRAM

Kilaka Stotram

కీలకస్తోత్రమ్

Kilaka Stotram is a traditional Durga devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

अथ कीलकम् ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः अनुष्टुप छन्दः महासरस्वती देवता श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन विनियोगः । ॐ नमश्चण्डिकायै ॥ मार्कण्डेय उवाच ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्द्धधारिणे ॥१॥ सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम् । सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः ॥२॥ सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि । एतेन स्तुवतां देवि स्तोत्रमात्रेण सिद्ध्यति ॥३॥ न मन्त्रो नौषधं तत्र न किच्ञिदपि विद्यते । विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम् ॥४॥ समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः । कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ॥५॥ स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः । समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम् ॥६॥ सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः | कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ॥७॥ ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति । इत्थंरुपेण कीलेन महादेवेन कीलितम् ॥८॥ यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम् । स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः ॥९॥ न चैवाप्यटतस्तस्य भयं क्कापीह जायते । नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात् ॥१०॥ ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति । ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः ॥११॥ सौभाग्यादि च यत्किच्चिद् दृश्यते ललनाजने । तत्सर्वं तत्तप्रसादेन तेन जाप्यमिदं शुभम् ॥१२॥ शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः । भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ॥१३॥ ऐश्वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः । शत्रुहानिःपरो मोक्षः स्तूयते सा न किं जनैः ॥१४॥ इति देव्याः कीलकस्तोत्रं सम्पूर्णम् ।
Reading & reflection

This hymn addresses Durga through devotional names and imagery. Begin with a quiet breath, read one verse at a time, and leave a short pause between stanzas.

Text edition & attribution

Complete text of कीलकस्तोत्रम् on Sanskrit Wikisource, revision 305048, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Durga readings