ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Lalitha / Sahasranama
LALITHA · SAHASRANAMA

Lalitha Sahasranama Stotram

శ్రీ లలితాసహస్రనామస్తోత్రమ్

Lalitha Sahasranama Stotram is a traditional Lalitha devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

श्री ललितासहस्रनामस्तोत्रम् ॥ पूर्वभागः ॥ ॥ श्री ललितामहात्रिपुरसुन्दर्यै नमः ॥ श्री विद्यां जगतां धात्रीं सर्गस्स्थि लयेश्वरीम् । नमामि ललितां नित्यां महात्रिपुरसुन्दरीम् ॥ अगस्त्य उवाच- अश्र्वानन महाबुद्धे सर्वशास्त्र विशारद । कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥ पूर्वं प्रादुर्भवो मातुस्ततः पट्टाभिषेचनम् । भण्डासुरवधवैव विस्तरेण त्वयोदितः ॥ वर्णितः श्रीपुरं चापि महाविभवविस्तरम् । श्रीमत्पञ्चदशाक्षर्या महिमा वर्णिस्तथा ।। षोढान्यासादयो न्यासा न्यासखण्डे समीरिताः । अन्तर्यागक्रमश्चैव बहियार्गक्रमस्तथा ॥ महायागक्रमश्वैव पूजाखण्डे प्रकीर्तितः । पुरश्वरखण्डे तु जपलक्षणमीरितम् ॥ होमखण्डे त्वया प्रोक्तो होमद्रव्यविधिक्रमः । चक्रराजस्य विद्यायाः श्रीदेव्या देशिकात्मनोः ॥ रहस्यखण्डे तदात्म्य परस्परमुदीतिम् । स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥ मन्त्रिणीदण्डिनीदेव्योः प्रोक्तो नामसहस्रके । न तु श्री ललितादेव्याः प्रोक्ते नामसहस्रकम् ॥ तत्र मे संशयो जातो हयग्रीव दयानिधे । किं वा त्वया विस्मृतं तज्ज्ञात्त्वा वा समुपेक्षितम् ॥ मम वा योग्यता नास्ति श्रोतुं नामसहस्रकम् । किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥ सूत उवाच- इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना । प्रह्ष्टो वचनं प्राह तापसं कुम्भसंभवम् ॥ श्री हयग्रीव उवाच- ळोपामुद्रापतेऽगस्त्य सावधानमनाः शुणृः । नाम्नां सहस्र यन्नोक्तं कारणं तद्वदामि ते ॥ रहस्यमिति मत्वाऽहं नोक्तवास्ते न चान्यथा । पुन्श्च पृच्छते भक्त्या तस्मात्त्ते वदाम्यहम् ॥ ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः । भवता न प्रदेयं स्यादभक्ताय कदाचन ॥ न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् । श्रीमातृभक्तियुक्ताय श्रीविद्याराजवेदिने ॥ उपासकाय शुद्धाय देयं नामसहस्रकम् । यानि नाम सहस्रणानि सद्यः सिद्धिप्रदानि वै ॥ तन्त्रेषु ललितादेव्यास्तुते मुख्यमिदं मुने । श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥ पुराणां श्रिरपुरमिव शक्तिनां ललिता यथा । श्रीविद्योपासकानां च यथा देवो परः शिवः ॥ तथा नाम सहस्रेषु वरमेतत् प्रकीर्तितम् । यथाऽस्य पठनाद्देवी प्रीयते ललिताम्बिका ॥ अन्यनामसहस्रस्य पाठान्न प्रीयते तथा । श्रीमातुः प्रीयते तस्माददिशं कीर्तयेदिद्म ॥ बिल्वपत्रैश्वक्रराजे योऽर्चयेल्ललिताम्बिकाम् । पद्य्मैर्वा तुलसीपुष्पैरिभिर्नामसहस्रैः ॥ सद्यः प्रसादं कुरुते तस्य सिंहासनेश्वरी । चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ।। जपान्ते कीर्तियेन्नित्यमिदं नामसहस्रकम् । जपपूजाद्यशक्तश्रेत् पठेन्नामसहस्रम् ।। साङ्गर्चने साङ्गजपे यत्फलं तदवाप्नुयात् । उपासने स्तुतीरन्या पठेदभ्युदयो हि सः ।। इदं नामसहस्रं तु कीर्तियेन्नित्यकर्मवत् । चक्रराजार्चनं देव्या जपो नाम्नां च कीर्तिनम् ।। भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः । भक्तस्यावश्यकमिदं नामसहस्रकीर्तिनम् । तत्र हेतुं प्रवक्ष्यामि शुणृ त्वं कुम्भसम्भव ।। पुरा श्रीललितादेवी भक्तानां हितकाम्यया ।। वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत । वाग्देवता वशिन्याद्याः शुणृध्वं वचनं मम ।। भवत्यो मत्प्रसादेन प्रोल्लसद्वाग्विभूतयः । मद्भक्तानाम् वाग्विभूतिप्रदाने विनियाजिताः ।। मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः । मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ।। कुरुध्वमंक्कितं स्तोत्रं मम नामसहस्रकैः । येन भक्तैः स्तुताया मे सद्यः प्रीतिः परा भवेत् ।। हयग्रीव उवाच – इत्याज्ञप्ता वचोदेव्यो देव्या श्रीललिताम्बया । रहस्यैर्नामभिर्दिव्यैश्र्वकुः स्तोत्रमनित्तमम् ।। रहस्यनामसाहस्रमिति तद्विश्रुतं परम् । ततः कदाचित् सदसि स्थित्वा सिंहासनऽम्बिका ।। स्वसेवासरं प्रदात् सर्वेषां कुम्भसम्भव । सेवार्थमागतास्तत्र ब्राह्माणी ब्रह्मकोटयः ।। लक्ष्मीनारायणानां च कोटयः समुपागताः । गौरीकोटिसमेतानाम् रुद्राणां मपि कोटयः ।। मन्त्रिणीदण्डिनीमुख्याः सेवार्थ याः समागताः । शक्तयो विविधाकारास्तासां संख्या न विद्यते ।। दिव्यौघा मानवौघाश्व सिद्धौघाश्व समागताः । तत्र श्री ललितादेवी सर्वेषां दर्शनं ददौ ।। तेषु दुष्टोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् । ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ।। उत्थाय वशिनीमुख्या बद्धाञ्जलिपुटास्तदा । अस्तुवन्नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ।। श्रुत्वा स्तवं प्रसन्नाभूल्ललिता परमेश्वरी । ते सर्वे विस्मयं जग्मुर्ये तत्र सदसि स्थिताः ।। ततः प्रोवाच ललिता सदस्यान् देवतागणान् । ममाज्ञयैव वाग्देव्यश्र्वक्रुः स्तोत्रमनुत्तमम् ।। अंक्कितं नामभिर्दिव्यैर्मम प्रीतिविधायकैः । तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवृद्धये ।। प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् । इदं नामसहस्रं मे यो भक्तः पठते सकृत् ।। स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् । श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ।। पश्चान्नामसहस्रं मे कीर्तियेन्मम तुष्टये । मामर्चयतु वा मा वा विद्यां जपतु वा ना वा ।। कीर्तियेन्नामसाहस्रमिदं मत्प्रीतये सदा । मत्प्रीत्या सकलान् मे कीर्तयध्वं सदाऽऽदरात् । हयग्रीव उवाच – इति श्रीललितेशानी शास्ति देवान् सहानुगान् ।। तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः । शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ।। पठन्ति भक्तया सततं ललितापरितुष्टये । तस्मादवश्यं भक्तेन कीर्तिनीयमिदं मुने ।। आवश्यकत्वे हेतुस्ते मया प्रोक्तो मुनीश्वर । इदानीं नामसाहस्रं वक्ष्यामि श्रद्वया शुणृ ।। श्री ललितासहस्रनामस्तोत्रम् ।। न्यासः ।। अस्य श्रीललितासहस्रनामस्तोत्रमाला मन्त्रस्य वशिन्यादि वाग्देवता ऋषयः । अनुष्टुप् छन्दः । श्रीललितापरमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेतिकीलकम् । श्रीललितामहात्रिपुरसुन्दरी प्रसादसिद्धिद्धारा चिन्तित फलावाप्त्यर्थे जपे विनियोगः । लमित्यादिञ्चपूजां कुर्यात् । ।। ध्यानम् ।। सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामलिपूर्णरत्नचषकं रक्तोफळं बिभ्रतीं सौम्या रत्नघटस्थरक्तचरणां ध्यायेत्पराम्बिकाम् ।। श्री ललितासहस्रनामस्तोत्रम् ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी । चिदग्रि – कुण्ड – सम्भूता- देवकार्य -समुद्यता ।। उद्भानु -सहस्राभा -चर्तुबाहू -समन्विता । रागस्वरुप –पाशाढ्या- क्रोधाकारांक्कुशोज्ज्वाळा ।। मनोरुपेक्षु -कोदण्डा -पञ्चतन्मात्र -सायका । निजारुण -प्रभापूर -मज्जद्वह्याण्ड -मण्डला ।। चम्पकाशोक – पुन्नाग – सौगन्धिक –लसत्कचा । कुरुविन्द – मणि-श्रेणी – कनत्कोटीर – मण्डिता ।। अष्टमीचन्द्र – विभ्राज – दलिकस्थल – शोभिता । मुखचन्द्र – कलंक्काभ – मृगनाभि – विशेषका ।। वदनस्मर – माङ्गळ्य – गृहतोरण – चिळ्लिका । वक्त्रलक्ष्मी – परिवाह- चलन्मीनाभ – लोचना ।। नवचम्पक – पुष्पाभ- नासादण्ड – विराजिता । ताराकान्ति- तिरस्कारि – नासाभरण-भासुरा ।। कदम्बमञ्जरी – क्लृप्त-कर्णपूर-मनोहरा । ताटङ्क – युगली-भूत – तपनोडुप – मण्डला ।। पद्य्मरागशिलादर्श – परिभावि – कपोलभूः । नवविद्रुम – बिम्बश्री – न्यक्कारि – रदनच्छदा ।। शुद्धविद्यांकुराकार – द्विजपंक्ति – द्वयोज्ज्वला । कर्पूरवीटिकामोद – समाकर्ष-द्विगन्तरा ।। निज – सळ्लाप – माधुर्य – विनर्भिर्त्सित – कच्छपी । मन्दस्मित – प्रभापूर – मज्ज्तकामेश – मानसा ।। अनाकालित – सादृश्य – चुबुकश्री – विराजिता । कामेश – बद्ध-माङ्ग्ल्य-सूत्र-शोभित – कन्धरा ।। कनकाङ्ग्द – केयूर – कमनीय – भुजानविता । रत्नग्रैवेय – चिन्ताक – लोल- मुक्ता- फलान्विता ।। कामेश्वर – प्रेमरत्न-मणि – प्रतिपण – स्तनी । न्याभ्यालवाल – रोमालि – लता-फल-कुचद्वयी ।। लक्ष्यरोम - लताधारता – समुन्नेय – मध्यमा ।। स्तनभार – दलन्मध्य – पट्टबन्ध – वलित्रया ।। अरुणारुणकौसुम्भ – वस्त्र – भास्वत् – कटीतटी । रत्न – किङ्किणिका – रम्य – रशना – दाम – भूषिता ।। कामेश – ज्ञात – सौभाग्य – मार्दुवोरु – द्वयान्विता । माण्यिकामुकुटाकार – जानुद्वय – विराजिता ।। इन्द्रगोप – परिक्षिप्तस्मरणतूनाभ – जंघिका । गूढगुळ्फा – कूर्मपृष्ठ- ययिष्णु – प्रपदान्विता ।। नख – दीधित – संछन्न – नमज्जन – तमोगुणा । पदद्वय – प्रभाजाल – पराकृत – सरोरुहा ।। सिञ्जान – मणिमञ्जीर मण्डित – श्री-पदाम्बुजा । मराली-मन्दगमना – महालावण्य – शेवधिः ।। सर्वारुणाऽनवद्यांगी – सर्वाभरण – भूषिता । शिव कामेश्वराङ्कस्था – शिवा स्वाधीन – वल्लभा ।। सुमेरु – मध्य – शृङ्गत्था – श्रीमन्नगर- नायिका । चिन्तामणि गृहान्तस्था पञ्च-ब्रह्मासन – स्थिता ।। महापद्य्माटवी – संस्था कदम्बवन – वासिनी । सुधासागर – मध्यस्था कामाक्षी कामदायिनी ।। देवर्षि- गण- संघात – स्तूयमानात्म – वैभवा । भण्डासुर – वधोद्युक्त – शक्तिसेना – समान्विता ।। सम्पत्करी – समारुढ – सिन्धुर – वज्र – सेविता । अश्र्वारुढाधिष्ठिताश्र – कोटि – कोटिभि – रावृता ।। चक्रराज – रथारुढ – सर्वायुध – परिष्कृता । गेयचक्र – रथारुढ – मंत्रिणी – परिसेविता ।। किरिचक्र – रथारुढ – दण्डनाथा – पुरस्कृता । ज्वालामालिनिकाक्षिप्त – मह्निप्राकार – मध्यगा ।। भण्डसैन्य – वधोयुक्त – शक्ति – विक्रम – हर्षिता । नित्या – पराक्रमाटोप – निरीक्षण- समुत्सुका ।। भण्डपुत्र – वधोद्युक्त – बाला – विक्रम – नन्दिता । मन्त्रिण्यम्बा – विरचित – विषङ्ग – वध – तोषिता ।। विशुक्र – प्राणहरण – वाराही – वीर्य- नन्दिता । कामेश्वर – मुखालोक – कल्पित – श्रीगणेश्वरा ।। महागणेश – निभिन्न – विघ्नयन्त्र – प्रहर्षिता । भण्डासुरेन्द्र – निर्मुक्त – शस्त्र – प्रयस्र – वर्षिणी कराङ्गुलि – नखोत्पन्न – नारायण-दशाकृतिः । महा – पाशुपतास्राग्रि-निर्दग्धासुर – सैनिका ।। कामेश्वरास्र – निर्दग्ध – सभण्डासुर – शून्यका । ब्रह्मोपेन्द्र – महेन्द्रादि – देव – संस्तुत – वैभवा ।। हर- नेत्राग्रि – संदग्ध – काम – सञ्जीवनौषधिः । श्रीमद्वाग्भव – कूटैक – स्वरुप – मुख – पंक्कजा ।। कण्ठाधः – कटि – पर्यन्त – मध्यकूट – स्वरुपिणी । शक्तिकूटैकतापन्न – कट्यधोभाग – धारिणी ।। मूलमन्त्रात्मिका मूलकूटत्रय – कलेवरा । कुलामृतैक – रसिका – कुलसंकेत – पालिनी ।। कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी । अकुला समयान्तरस्था समयाचार – तत्परा ।। मूलाधारैक – निलया ब्रह्माग्रन्थि – विभेदिनी । मणिपूरान्तरुदिता विष्णुग्रन्थि विभेदनी ।। आज्ञाचक्रकान्तरालस्था रुद्रग्रन्थि – विभेदनी । सहस्राम्बुजारुढा सुधासाराभिवर्षिणी ।। तडिलता समरुचिऋ षट्चक्रोपरि – संस्थिता । महाशक्तिः कुण्डलिनी बिसतन्तु – तनीयसी ।। भवानी भावनागम्या भवारण्य – कुठारिका । भद्रप्रिया भद्रमूर्ति – भक्त- सौभाग्यदायिनी ।। भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा । शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ।। शाक्करी श्रीकरी साध्वी शरचन्द्र – निभानना । शातोदरी शान्तिमती निराधारा निरञ्जना ।। निर्लेपा निर्मला नित्या निराकारा निराकुला । निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ।। नित्यमुक्ता निर्विकारा निष्प्रपञ्जा निराश्रया । नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ।। निष्कारणा निष्कलङ्का निरुपाधि – र्निरीश्वरा । नीरागा रागथनी निर्मदा मदनाशिनी ।। निश्रिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी । निमर्मा ममताहन्त्री निष्पापा पापनाशिनी ।। निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाषिनी । निःसंशया संशयघ्नी निर्भवा भवनाषिनी ।। निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी । निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ।। निस्तुला नीलचिकुरा निरपाया निरत्यया । दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ।। दुष्टदूरा दुराचारशमनी दोष-वर्जिता । सर्वज्ञा सान्द्रकरुणा समानाधिक – वर्जिता ।। सर्वशक्तिमयी सर्वमाङ्ग्ला सद्गति – प्रदा । सर्वेश्वरी सर्वमयी सर्वमन्त्र सर्वरुपिणी ।। सर्व – यन्त्रात्मिका सर्व – तन्त्ररुपा मनोन्मनी । माहेश्वरी महादेवी महालक्ष्मी – मृडप्रिया ।। महारुपा महापूज्या महा – पातक-नाशिनी । महामाया महासत्वा महाशक्ति – र्मकारतिः ।। महाभोगा महैश्वर्या महावीर्या महाबला । महाबुद्धि – महासिद्धि – र्महायोगेश्वरेश्वरी ।। महातन्त्रा – महामन्त्रा महायन्त्रा महासना । महायाग – महाक्रमाराध्या – महाभैरव – पूजिता । महेश्वर – महाकल्प –महाताण्डव – साक्षिणी । महाकामेश – महिषी महारात्रिपुरसुन्दरी ।। चतुष्टषष्ट्युपचाराढ्या चतुष्टषष्टकलामयी । महाचतुःषष्टकोटि –योगिनी – गणसेवीता ।। मनुविद्या चन्द्रविद्या चन्द्रमण्डल मध्यगा । चारुरुपा चारुहासा चारुचन्द्र – कलाधरा ।। चराचर – जगन्नाथा चक्ररात – निकेतना । पार्वती पद्य्मनयना पद्य्मराग – समप्रभा ।। पञ्चप्रेतासनासीना पञ्चब्रब्मस्वरुपिणी । चिरमयी परमानन्दा विज्ञानज्ञनस्वरुपिणी ।। ध्यान – ध्यातृ – ध्येयरुपा धर्माधर्मविवर्जिता । विश्वरुपा जागरणी स्वपन्ती तैजसात्मिका ।। सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्था – विवर्जिता । सृष्टिकर्त्री ब्रह्मरुपा गोप्त्री गोविन्दरुपिणी ।। संहारिणी रुद्ररुपा तिरोधानकरीश्वरी । सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ।। भानुमण्डल – मध्यस्था भैरवी भगमालिनी । पद्य्मासना भगवती पद्य्मनाभ – सहोदरी ।। उन्मेष – निमिषोत्पन्न – विपन्न – भुवनावलिः । सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ।। आब्रह्मकीटजननी वर्णाश्रम विधायनी । निजाज्ञारुप – निगमा पुण्यापुण्य – फलप्रदा ।। श्रुति सिमन्त सिन्दुरी – कृत – पादाब्जधूलिका । सकलागम सन्दोह – सूक्ति – सम्पुट – मौक्तिका ।। पुरुषार्थ प्रदा पूर्णा भोगिनी भुवनेश्वरी । अम्बिकाऽनादि – निधना हरिब्रह्मेनदु सेविता ।। नारायणी नादरुपा नामरुप – विवर्जिता । ह्रीं कारी ह्रीमती ह्रया हेयोपादेय वर्जिता ।। राजराजार्चिता राज्ञी रम्या राजीव लोचना । रञ्जनी रमणी रस्या रणत्किङ्किणी – मेखला ।। रमा राकेन्दु – वदना रतिरुपा रतिप्रिया । रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ।। काम्या कामकलारुपा कदम्ब-कुसुम-प्रिया । कल्याणी जगती – कन्दा करुणा रस सागरा ।। कलावती कलालापा कान्ता कादम्बरी – प्रिया । वरदा वामनयना वारुणी – मद – विह्वला ।। विश्वाशिका वेदवेद्या विन्ध्याचल – निवासनी । विधात्री वेदजननी विष्णुमाया विलासनी ।। क्षेत्रस्वरुपा क्षेत्रेशी क्षेत्र – क्षेत्र्यज्ञ – पालिनी । क्षयवृद्धि – विर्निमुक्ता क्षेत्रपाल – समर्जिता ।। विजया विमला वन्ध्या वन्दारु –जन-वत्सला । वाग्वादिनी वामकेशी वह्मिमण्डल वासिनी ।। भक्तिमय कल्पलतिका पशुपाश – विमोचनी । संह्रताशेष – पाषण्डा सदाचार – प्रवर्तिका ।। तापत्रयाग्रि – सन्तप्त – समाह्वदन – चन्द्रिका । तरुणी तापसा राध्या तनुमध्या तमोऽपहा ।। चिति – स्ततपद – लक्ष्यार्थी चिदेकरस – रुपिणी । स्वात्मानन्द लयाभूत – ब्रह्माद्यानन्द – सन्तति ।। परा प्रत्यक चित्तरुपा पश्यन्ती परदेवता । मध्यमा वैखरी रुपा भक्तृमानस – हंसिका ।। कामेश्वर – प्राणनाडी कृतज्ञा कामपूजिता । श्रृंगार रस- सम्पूर्णा जया जालन्धर स्थिता ।। ओड्यपाण-पीठ – विलया बिन्दु – माण्डलवासिनी । रहायोग – क्रमाराध्या रहस्तपर्ण – तर्पिता ।। सद्यः प्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता । षडङ्गदेवता – युक्ता षाड्गुण्य – परिपूरिता ।। नित्या – क्लिन्ना निरुपमा निर्वाण सुख दायिनी । नित्याषोडशिका – रुपा श्रीकण्ठार्ध – शरीरिणी ।। प्रभावती प्रभारुपा प्रसिद्धा परमेश्वरी । मूलप्रकृति – रव्यक्ता व्यक्ताव्यक्त – स्वरुपिणी ।। व्यापिनी विविधाकारा विद्याऽविद्या – स्वरुपिणी । महाकामेश नयन-कुमुदाह्वाद – कौमुदी ।। 'भक्त –हार्द – तमो – भेद – मद्भानु संततिः । शिवदूती शिवराध्या शिवमूर्तिः शिवक्करि ।। शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता । अप्रमेया स्वप्रकाशा मनो-वाचामगोचरा ।। च्छिछक्ति – श्चेतना – रुपा जडशक्ति – र्जडात्मिका । गायत्री – व्याह्रती संध्या द्विजबृन्द – निषेविता ।। तत्वासना तत्तवमयी पञ्चकोशान्तर – स्थिता । निःसीम – महिमा नित्य – यौवना मदशालिनी ।। मद्घूर्णित रक्ताक्षी मदपाट्ल-गण्डभूः । चन्दन – द्रव – दिग्धाङ्की चाम्पेय –कुसुम – प्रिया ।। कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी । कुलकुण्डलया कौलमार्ग – तत्पर – सेविता ।। कुमार – गणनाशाम्बा तुष्टिः पुष्टि-र्मति-धृतिः । शान्तिः स्वस्तिमयी कान्ति-र्नन्दिनी विघ्ननाशिनी ।। तेजोवती त्रिनयना लोलाक्षी – कामरुपिणी । मालिनी हंसिनी माता मलयाचल – वासिनी ।। सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका । कालकण्ठी कान्तिमयी क्षोभिणी सूक्ष्मरुपिणी ।। वज्रेश्वरी वामदेवी वयोवस्था – विवर्जिता । सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्वनी ।। विशुद्धि – चक्र – निलया - ऽऽरक्तवर्णा त्रिलोचना । खट्वाङ्गदि – प्रहरणा वदवैक – समन्विता ।। पायसान्न प्रिया त्वकस्था पशुलोक भयंक्करी । अमृतादि – महाशक्ति –संवृता डाकिनीश्वरी ।। अनाहाताब्ज – निलया श्यामाभा वदनद्वया । दंष्ट्रोज्ज्वलाक्षमालादि – धरा रुधिर – संस्थिता ।। कालरात्र्यादि – शक्त्यौघ – वृता स्न्गिधौदन – प्रिया । महावीरेन्द्र वरदा राकिण्यम्बा – स्वरुपिणी ।। मणिपूराब्ज निलया वदहत्रय – संयुता । वज्राधिकायुधोपेता डामर्यादिभि – रावृता ।। रक्तिवर्णा मांसनिष्ठा गुडान्न – प्रीत – मानसा । समस्तभक्त – सुखदा लाकिन्यम्बा – स्वरुपिणी ।। स्वाधिष्ठानाम्बुजकता चर्तुवक्त्र – मनोहरा । शूलाद्यायुद्ध – सम्पन्ना पीतवर्णाऽतिगर्विता ।। मेदो निष्ठा मधुप्रीता बन्धिन्यादि – समन्विता । दध्यन्नासक्त – ह्रदया काकिनी – रुप – धारिणी ।। मूलाधाराम्बुजारुढा पञ्चवक्त्रास्थि – संस्थिता । अङ्कुशादि –प्रहरणा वरदादि – निषेविता ।। मुद्गौदनासक्त – चित्ता साकिन्यम्बा – स्वरुपिणी । आज्ञा – चक्राब्ज – निलया शुक्लवर्णा षडानना ।। मज्जा – संस्था हंसवती – मुख्य – शक्ति – समान्विता । हरिद्रान्नैक – रसिका हाकिनी – रुप – धारिणी ।। सहस्रदल – पद्य्मस्था सर्व – वर्णोप – शोभिता । सर्वायुध – धरा शुक्ल – संस्थिता सर्वतोमुखी ।। सर्वौदन- प्रीतचित्ता याकिन्यम्बा – स्वरुपिणी । स्वाहा स्वधाऽमति – र्मेधा श्रुति- स्मृति- रन्नुमत्ता ।। पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवण – कीर्तिना । पुलोमजार्चिता बन्धमोचनी बन्धुरालका ।। विमर्शरुपिणी विद्या वियदादि – जगत्प्रसूः । सर्वव्याधि – प्रशमनी सर्वमृत्यु – निवारणी ।। अग्रगण्या - ऽचिन्त्यरुपा कलिकल्मष – नाशिनी । कात्यायनी कालहन्त्री कमलाक्ष – निषेविता ।। ताम्बूल – पूरित – मुखी दाडिमी –कुसुम – प्रभा । मृगाक्षी मोहिनी मुख्या मृडानी मित्ररुपिणी ।। नित्य – तृप्ता भक्तिनिधि – र्नियन्त्री निखिलेश्वरी । मैत्र्यादि – वासनालभ्या महा-प्रलय-साक्षिणी ।। पराशक्तिः परानिष्ठा प्रज्ञानघन – रुपिणी । माध्वीपानालसा मत्ता मातृका – वर्ण-रुपिणी ।। महाकैलास-निलया – मृणाल-मृदु-दोर्लता । महनीया दयामूर्ति – र्महासाम्राज्य-शालिनी ।। आत्मविद्या महाविद्या श्रीविद्या कामसेविता । श्रीषोडाशाक्षरीविद्या त्रिकुटा कामकोटिका ।। कटाक्ष – किंक्करी-भूत – कमला – कोटि – सेविता । शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रु – धनुः प्रभा ।। ह्दयास्था रविप्रख्या त्रिकोणान्तर – दीपिका । दाक्षायणी दैन्त्यहन्त्री दक्षयज्ञविनाशनी ।। दरान्दोलित दीर्घाक्षी दरहासोज्ज्वलमुखी । गुरु-मूर्ति-गुण-निधि-र्गोमाता गुहजन्म – भूः ।। देवेशी दण्डनीतिस्था दहराकाश – रुपिणी । प्रतिपन्मुख्य – राकान्त –तिथि-मण्डल – पूजिता ।। कलात्मिका कलानाथा काव्यालाप – विनोदनी । सचामर – रमा – वाणी – सव्य – दक्षिण – सेविता ।। आदिशक्ति - रमेयाऽऽत्मा परमा पावनाकृतिः । अनेक –कोटि-ब्रह्माण्ड-जननी दिव्य-विग्रहा ।। क्लीं कारी केवला गुह्या कैवल्य-पद-दायिनी । त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्ति-स्रिदशेश्वरी । त्र्यक्षरी दिव्य – गन्धाढ्या सिन्दुर-तिलकाञ्जिता । उमा शैलेन्द्रतनया गौरी गन्धर्व – सेविता ।। विश्वगर्भा स्वर्णगर्भा - ऽवरदा वागधीश्वरी । ध्यानगम्या - ऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ।। सर्व-वेदान्त-सम्यवेद्या सत्यानन्द स्वरुपिणी । लोपामुदार्चिता लीलाक्लृप्त – ब्रह्माण्ड-मण्डला ।। अदृश्या दृश्यरहिता विज्ञात्री वैद्य-वर्जिता । योगिनी योगदा योग्या योगानन्दा युगन्धरा ।। इच्छाशक्ति-ज्ञानशक्ति-क्रियाशक्ति-स्वरुपिणी । सर्वाधारा सुप्रतिष्ठा सदसद्रूप धारिणी ।। अष्टमूर्ति – रजाजैत्री लोकयात्रा विधायिनी । एकाकिनी भूमरुपा निर्द्वैता – द्वैतवर्जिता ।। अन्नदा वसुदा वृद्वा ब्रह्मात्मैक्य – स्वरुपिणी । बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ।। भाषारुपा बृहत्सेना भावाभाव – विवर्जिता । सुखाराध्या शुभकरी शोभनासुलभागतिः ।। राजराजेश्वरी राज्यदायिनी राज्यवल्लभा । राजत्कृपा राजपीठ – निवेशित-निजाश्रिता ।। राज्यलक्ष्मीः कोशनाथा चतुपङ्ग – बलेश्वरी । साम्राज्य – दायिनी सत्यसन्धा सागरमेखला ।। दीक्षिता दैत्यशमनी सर्वलोकवशंक्करी । सर्वार्थदात्री सावित्री सच्चिदानन्द- रुपिणी ।। देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी । सरस्वती शास्रमयी गुहाम्बा गुह्यारुपिणी ।। सर्वोपाधि – विर्निमुक्ता सदाशिव – पतिव्रता । सम्प्रदायेश्वरी साध्वी गुरुमण्डल – रुपिणी ।। कुलोत्तीर्णा भगाराध्या माया मधुमती मही । गणाम्बा गुह्यकाराध्या कोमलांगी गुरुप्रिया ।। स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्ति – रुपिणी । सनकादि – समाराध्या शिवज्ञान – प्रदायिनी ।। चित्कलाऽऽनन्द – कलिका प्रेमरुपा प्रियंक्करी । नामपारायण – प्रीता नन्दिविद्या नटेश्वरी ।। मिथ्या – जगदधिष्ठाना मुक्तिदा मुक्तिरुपिणी । लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ।। भवदाव – सुधावृष्टिः पापारण्य – दवानला । दौर्भाग्य – तूलवातुला जराध्वान्तरविप्रभा ।। भाग्याब्धि – चन्द्रिका भक्त-चित्त-केकि-घनाघना । रोगपर्वत – दम्भोलि-र्मृत्युदारु-कुठारिका ।। महेश्वरी महाकाली महाग्रासा महाशना । अपर्णा चण्डिका चण्डमुण्डासुर – निषूदनी ।। क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी । त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ।। स्वर्गापवर्गदा शुद्धा जपापुष्प – निभाकृतिः । ओजोवती द्युतिधरा यज्ञरुपा प्रियव्रता ।। दुराराध्या दुराधर्षा पाटली – कुसुम-प्रिया । महती मेरुनिलया मन्दार-कुसुम-प्रिया ।। वीराराध्या विराड्रुपा विरजा विश्वतोमुखी । प्रत्यग् – रुपा पराकाशा प्राणदा प्राणरुपिणी ।। मार्ताण्ड – भैरवाराध्या मन्त्रिणी-न्यस्त-राज्यधूः । त्रिपुरेशी जयत्सेना निस्रैगुण्या परापरा ।। सत्यज्ञानान्द – रुपा सामरस्य – परायणा । कपर्दिनी कलामाला कामधु-क्काम-रुपिणी ।। कलानिधिः काव्यकला रसज्ञा रसशेवधिः । पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ।। परञ्ज्योतिः परन्धाम परमाणुः परात्परा । पाशहत्सा पाशहन्त्री परमन्त्र – विभेदनी ।। मूर्ताऽमूर्ता नित्यतृप्ता मुनिमानस – हंसिका । सत्यव्रता सत्यरुपा सर्वान्तर्यामिनी सती ।। ब्रह्माणी ब्रह्मजननी बहुरुपा बुधार्चिता । प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ।। प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठ – रुपिणी । विश्वृंखला विवित्तस्था वीरमाता वियत्सप्रसुः ।। मुकुन्दा मक्तिनिलया मूलविग्रह-रुपिणी । भावज्ञा भवरोगघ्नी भवचक्र-प्रवर्तिनी ।। छन्दः सारा शास्रसारा मन्त्रसारा तलोदरी । उदारकीर्ति – रुद्दामवैभवा वर्णरुपिणी ।। जन्ममृत्यु – जरातप्त-जन-विश्रांति-दायिनी । सर्वोप्निष-दुद्घुष्टा शान्त्यतीत – कलात्मिका ।। गम्भीरा गगनान्तस्था गर्विता गानलोलुपा । कल्पना – रहिता काष्ठाऽकान्ता कान्तार्ध – विग्रहा ।। कार्यकारण – निर्मुक्ता कामकेलि – तरङ्गिता । कनत्कनक –ताटंक्का लीला-विग्रह-धारिणी ।। अजा क्षयविर्निर्मुक्ता मुग्धा क्षिप्र-प्रसादिनी । अन्तर्मुख – समाराध्या बहिर्मुख – सुदुर्लभा ।। त्रयी त्रिवर्ग- निलया त्रिस्था त्रिपुर – मालिनी । निरामया निरालम्बा स्वात्मारामा सुधासृतिः ।। संसारपङ्क – निमर्ग्र – समुद्धरण – पण्डिता । यज्ञप्रिया यज्ञकर्त्री यजमान – स्वरुपिणी ।। धर्माधारा धनाध्यक्षा धनधान्य – विवार्धिनी । विप्रप्रिया विप्ररुपा विश्वभ्रमण – कारिणी ।। विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरुपिणी । अयोनि –र्योनि-निलया कूटस्था कुलरुपिणी ।। वीरगोष्ठी – प्रिया वीरा नैष्कर्म्या नादरुपिणी । विज्ञानकलना कल्या विदग्धा बैन्दवासना ।। तत्तवाधिका तत्वमयी त्तत्वमर्थ – स्वरुपिणी । सामगन – प्रिया सोम्या सदाशिव – कुटुम्बिनी ।। सव्यापसव्य – मार्गस्था सर्वापद्धिनिवारिणी । स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ।। चैतन्यार्ध्य – समाराध्या चैतन्य-कुसुम-प्रिया । सदोदिता सदातुष्टा तरुणादित्य – पाटला ।। दक्षिणा – दक्षिणाराध्या दरस्मेर-मुखाम्बुजा । कौलिनी - केवऽनर्घ्य – कैवल्य-पद-दायिनी ।। स्तोत्र-प्रिया स्तुतिमती श्रुति-संस्तुत-वैभवा । मन्स्विनी मानवती महेशी मंङ्ग्लाकृतिः ।। विश्वमाता जगद्धात्री विशालाक्षी विरागिणी । प्रगल्भा परमोदारा परामोदा मनोमयी ।। व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी । पञ्चयज्ञ प्रिया पञ्चप्रेत-मञ्चाधिशायिनी ।। पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी । शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ।। धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी । लोकातीता गुणातीता सर्वातीता शमात्मिका ।। बन्धुक-कुसुम-प्रख्या बाला लीला-विनोदिनी । सुमङ्गली सुखकरी सवेषाढ्या सुवासिनी ।। सुवासिन्यर्चन-प्रीताऽऽशोभना शुद्ध-मानसा ।। बिन्दु-तर्पण-सन्तुष्टा पूर्वजा त्रिपुराम्बिका ।। दशमुद्रा-समाराध्या त्रिपुराश्रीवशंक्करी । ज्ञानमुद्रा ज्ञानगम्या ज्ञान-ज्ञेय-स्वरुपिणी ।। योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा । अनघाऽद्भुत- चारिता वाञ्छितार्थ – प्रदायिनी ।। अभ्यासातिशय – ज्ञाता षडध्वातीत – रुपिणी । अव्याज-करुणा-मूर्ति-रज्ञान-ध्वान्त-दीपिका ।। आबाल – गोप-विदिता सर्वानुल्लंघ्य-शासना । श्रीचक्रराज निलया श्रीमत्-त्रिपुरसुन्दरी ।। श्री शिवा शिव –शक्त्यैक्य-रुपिणी ललिताम्बिका । एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः ।। ।।इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्य-संवादे श्री ललितासहस्रनाम-स्तोत्रं सम्पूर्णम् ।।
Reading & reflection

This hymn addresses Lalitha through devotional names and imagery. Begin with a quiet breath, read one verse at a time, and leave a short pause between stanzas.

Text edition & attribution

Complete text of श्री ललितासहस्रनामस्तोत्रम् on Sanskrit Wikisource, revision 38076, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Lalitha readings