ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Adi Shankaracharya / Stotram
ADI SHANKARACHARYA · STOTRAM

Manisha Panchakam

మనీషాపఞ్చకమ్

Manisha Panchakam is a traditional Adi Shankaracharya devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

||मनीषापञ्चकं || मनीषापञ्चकं अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् | यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति || प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावबोधाम्बुधौ विप्रोऽयं श्वपचोऽयमित्यपि महान्कोऽयं विभेदभ्रमः | किं गङ्गाम्बुनि बिम्बितेऽम्बरमणौ चाण्डालवीथीपयः पूरे वाऽन्तरमस्ति काञ्चनघटीमृत्कुम्भयोर्वाऽम्बरे || जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी | सैवाहं न च दृश्यवस्त्विति दृढप्रज्ञापि यस्यास्ति चे- च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ||१|| ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् | इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ||२|| शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो- र्नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याजशान्तात्मना | भूतं भाति च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ||३|| या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते यद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः | तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय- न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ||४|| यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः | यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद् यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ||५|| दासस्तेऽहं देहदृष्ट्याऽस्मि शंभो जातस्तेंऽशो जीवदृष्ट्या त्रिदृष्टे | सर्वस्याऽऽत्मन्नात्मदृष्ट्या त्वमेवे- त्येवं मे धीर्निश्चिता सर्वशास्त्रैः || ||इति श्रीमच्छङ्करभगवतः कृतौ मनीषापञ्चकं संपूर्णम् ||
Reading & reflection

This hymn addresses Adi Shankaracharya through devotional names and imagery. Begin with a quiet breath, read one verse at a time, and leave a short pause between stanzas.

Text edition & attribution

Complete text of मनीषापञ्चकम् on Sanskrit Wikisource, revision 329157, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Adi Shankaracharya readings