SURYA · STOTRAM
Surya Ashtakam
శ్రీసూర్యాష్టకమ్
Surya Ashtakam is a traditional Surya devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ १ ॥
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ २ ॥
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ३ ॥
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ४ ॥
बृंहितं तेजसां पुञ्जं वायुराकाशमेव च ।
प्रभुस्त्वं सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ ५ ॥
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ६ ॥
विश्वेशं विश्वकर्तारं महातेज: प्रदीपनम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ७ ॥
श्रीविष्णुं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ८ ॥
सूर्याष्टकं पठन्नित्यं ग्रहपीडाप्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥ ९ ॥
॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥
Reading & reflection
Surya hymns celebrate the sun as light and life. Many readers include them in a morning practice.
Text edition & attribution
Complete text of श्रीसूर्याष्टकम् on Sanskrit Wikisource, revision 336157, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.
Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.