ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Guru / Stotram
GURU · STOTRAM

Gurvashtakam

శ్రీగుర్వష్టకమ్

Gurvashtakam is a traditional Guru devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

शरीरं सुरूपं तथा वा कलत्रम् यशश्चारु चित्रं धनं मेरु तुल्यम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ।।१।। कलत्रं धनं पुत्र पौत्रादिसर्वम् गृहे बान्धवाः सर्वमेतद्धि जातम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ।।२।। षडङ्गादिवेदो मुखे शास्त्रविद्या, कवित्वादि गद्यं सुपद्यं करोति । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ।।३।। विदेशेषु मान्यः स्वदेशेषु धन्यः, सदाचारवृत्तेषु मत्तो न चान्यः । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ।।४।। क्षमामण्डले भूपभूपालबृन्दैः, सदा सेवितं यस्य पादारविन्दम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ।।५।। यशो मे गतं दिक्षु दानप्रतापात्, जगद्वस्तु सर्वं करे यत्प्रसादात् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ।।६।। न भोगे न योगे न वा वाजिराजौ, न कन्तामुखे नैव वित्तेषु चित्तम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ।।७।। अरण्ये न वा स्वस्य गेहे न कार्ये, न देहे मनो वर्तते मे त्वनर्ध्ये । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे, ततः किं ततः किं ततः किं ततः किम् ।।८।। गुरोरष्टकं यः पठेत्पुण्यदेही, यतिर्भूपतिर्ब्रह्मचारी च गेही । लभेद्वाच्छितार्थं पदं ब्रह्मसंज्ञं, गुरोरुक्तवाक्ये मनो यस्य लग्नम् ।।९।।
Reading & reflection

Guru hymns honor the teacher and the transmission of knowledge. Use the reading as a moment of gratitude.

Text edition & attribution

Complete text of श्रीगुर्वष्टकम् on Sanskrit Wikisource, revision 238100, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Guru readings