ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Devi / Stotram
DEVI · STOTRAM

Soundarya Lahari

సౌన్దర్యలహరీ

Soundarya Lahari is a traditional Devi devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

॥श्रीः॥ ॥ सौन्दर्यलहरी॥ शिवः शक्त्या युक्तो यदि भवति शक्त: प्रभवितुं न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि । अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १॥ तनीयांसं पांसुं तव चरणपङ्केरुहभवं विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम् । वहत्येनं शौरिः कथमपि सहस्रेण शिरसां हर: संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥ अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी । दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ।। ३ ॥ त्वदन्यः पाणिभ्यामभयवरदो दैवतगण- स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया । भयात्त्रातुं दातुं फलमपि च वाञ्छासमधिकं शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥ हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् । स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा मुनीनामप्यन्तः प्रभवति हि मोहाय महताम ॥ ५॥ धनुः पौंष्पं मौर्वी मधुकरमयी पञ्च विशिखा वसन्तः सामन्तो मलयमरुदायोधनरथः । तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा- मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥ कणत्काञ्चीदामा करिकलभकुम्भस्तननता परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना । धनुर्बाणान्पाशं सृणिमपि दधाना करतलैः पुरस्तादास्तां न: पुरमथितुराहोपुरुषिका ॥ ७ ॥ सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥ महीं मूलाधारे कमपि मणिपूरे हुतवहं स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि । मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं सहस्रारे पद्मे सह रहसि पत्या विहरसे ।। ९॥ सुधाधारासारैश्चरणयुगलान्तर्विगलितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः । अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥ चतुर्भि: श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः । चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय- त्रिरेखाभिः सार्धं तव शरणकोणा: परिणताः ॥ ११ ॥ त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं कवीन्द्रा: कल्पन्ते कथमपि विरिञ्चिप्रभृतयः । यदालोकौत्सुक्यादमरललना यान्ति मनसा तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम ॥ १२ ॥ नरं वर्षीयांसं नयनविरसं नर्मसु जडं तवापाङ्गालोके पतितमनुधावन्ति शतशः । गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ।। १३ । क्षितौ षट्पञ्चाशद्विसमधिकपञ्चाशदुदके हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले । दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम ॥ १४ ॥ शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां वरत्रासत्राणस्फटिकघटिकापुस्तककराम् । सकृन्न त्वा नत्वा कथमिव सतां संनिदधते मधुक्षीरद्राक्षामधुरिमधुरीणा: फणितयः ॥ १५॥ कवीन्द्राणां चेतःकमलवनबालातपरुचिं भजन्ते ये सन्त: कतिचिदरुणामेव भवतीम् । विरिञ्चिप्रेयस्यास्तरुणतरश‍ृङ्गारलहरी- गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥ १६ ॥ सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभि- र्वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः । स कर्ता काव्यानां भवति मह्तां भङ्गिरुचिभि- र्वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥ १७ ॥ तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि- र्दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः । भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः सहोर्वश्या वश्याः कति कति न गीर्वाणगणिका: ।।१८।। मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् । स सद्यः संक्षोभं नयति वनिता इत्यतिलघु त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥ १९॥ किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः । स सर्पाणां दर्पं शमयति शकुन्ताधिप इव ज्वरप्लुष्टान्दृष्ट्या सुखयति सुधाधारसिरया ॥ २० ॥ तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं निषण्णां षण्णामप्युपरि कमलानां तव कलाम । महापद्माटव्यां मृदितमलमायेन मनसा महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥ २१ ॥ भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा- मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः । तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम ॥ २२ ।। त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत् । यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥ जगत्सूते धाता हरिरवति रुद्रः क्षपयते तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति । सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव- स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥ २४ ॥ त्रयाणां देवानां त्रिगुणजनितानां तव शिवे भवेत्पूजा पूजा तव चरणयोर्या विरचिता । तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥ विरिश्चि: पञ्चत्वं व्रजति हरिराप्नोति विरतिं विनाशं कीनाशो भजति धनदो याति निधनम् । वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥ जपो जल्प: शिल्पं सकलमपि मुद्राविरचना गति: प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः । प्रणाम: संवेश: सुखमखिलमात्मार्पणदृशा सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥ २७ ॥ सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः । करालं यत्क्ष्वेलं कबलितवतः कालकलना न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८ ॥ किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम् । प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९ ॥ स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो निषेव्ये नित्ये त्वामहमिति सदा भावयति यः । किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो महासंवर्ताग्निर्विरचयति नीराजनविधिम ॥ ३० ॥ चतुःषष्टया तन्त्रैः सकलमतिसन्धाय भुवनं स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः । पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना- स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥ शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरण: स्मरो हंसः शक्रस्तदनु च परामारहरयः । अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥ ३२ ॥ स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो- र्निधायैके नित्ये निरवधिमहाभोगरसिकाः । भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलया: शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥ ३३ ॥ शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं तवात्मानं मन्ये भगवति नवात्मानमनघम् । अत: शेष: शेषीत्ययमुभयसाधारणतया स्थित: संबन्धो वां समरसपरानन्दपरयोः ॥ ३४ ॥ मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम । त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥ ३५ ॥ तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं परं शंभुं वन्दे परिमिलितपार्श्वं परचिता । यमाराध्यन्भक्त्या रविशशिशुचीनामविषये निरालोकेऽलोके निवसति हि भालोकभुवने ॥ ३६ ॥ विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं शिवं सेवे देवीमपि शिवसमानव्यवसिताम । ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे- र्विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥ ३७ ॥ समुन्मीलत्संवित्कमलमकरन्दैकरसिकं भजे हंसद्वन्द्वं किमपि महतां मानसचरम् । यदालापादष्टादशगुणितविद्यापरिणति- र्यदादत्ते दोषाद्गुणमखिलमद्भ्यः पय इव ॥ ३८ ॥ तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं तमीडे संवर्तं जननि महतीं तां च समयाम् । यदालोके लोकान्दहति महति क्रोधकलिते दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥ ३९ ॥ तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् । तव श्यामं मेघं कमपि मणिपूरैकशरणं निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम ॥ ४० ॥ तवाधारे मूले सह समयया लास्यपरया नवात्मानं मन्ये नवरसमहाताण्डवनटम् । उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥ गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः । स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं धनु: शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२॥ धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धं सुमनसो वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३ ॥ तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहः स्रोत:सरणिरिव सीमन्तसरणिः । वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर- द्विषां बृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम ॥ ४४ ॥ अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् । दरस्मेरे यस्मिन्दशनरुचिकिञ्जल्करुचिरे सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥ ४५ ॥ ललाटं लावण्यद्युतिविमलमाभाति तब य- द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् । विपर्यासन्यासादुभयमपि संभूय च मिथ: सुधालेपस्यूति: परिणमति राकाहिमकरः ॥ ४६ ॥ भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् । धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥ ४७ ॥ अहः सूते सव्यं तव नयनमर्कात्मकतया त्रियामां वामं ते सृजति रजनीनायकतया । तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः समाधत्ते सन्ध्यां दिवसनिशयोरन्तरचरीम् ॥४८॥ विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः कृपाधाराधारा किमपि मधुराभोगवतिका । अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥४९॥ कवीनां संदर्भस्तबकमकरन्दैकरसिकं कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् । अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला- वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥५०॥ शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा सरोषा गङ्गायां गिरिशचरिते विस्मयवती । हराहिभ्यो भीता सरसिरुहसौभाग्यजननी सखीषु स्मेरा ते मयि जननि दृष्टिः सकरुणा ॥५१॥ गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले । इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥ ५२ ॥ विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते । पुनः स्रष्टुं देवान्द्रुहिणहरिरुद्रानुपरता- न्ररजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥ ५३ ॥ पवित्रीकर्तुं नः पशुपतिपराधीनह्रदये दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः । नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥ ५४ ॥ निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती तवेत्याहुः सन्तो धरणिधरराजन्यतनये । त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयत: परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥ ५५ ॥ तवापर्णे कर्णेजपनयनपैशुन्यचकिता निलीयन्ते तोये नियतमनिमेषा: शफरिकाः । इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥ दृशा द्राधीयस्या दरदलितनीलोत्पलरुचा दवीयांसं दीनं स्नपय कृपया मामपि शिवे । अनेनायं धन्यो भवति न च ते हानिरियता वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥ अरालं ते पालीयुगलमगराजन्यतनये न केषामाधत्ते कुसुमशरकोदण्डकुतुकम । तिरश्चीनो यत्र श्रवणपथमुल्लङ्घय विलस- न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८ ॥ स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् । यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥ सरस्वत्या: सूक्तीरमृतलहरीकौशलहरी: पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् । चमत्कारश्लाघाचलितशिरसः कुण्डलगणो झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥ असौं नासावंशस्तुहिनगिरिवंशध्वजपटि त्वदीयो नेदीयः फलतु फलमस्माकमुचितम । वहत्यन्तर्मुक्ता: शिशिरकरनिश्वासगलितं समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥ प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचे: प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता । न बिम्बं तद्विम्बप्रतिफलनरागादरुणितं तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥ स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां चकोराणामासीदतिरसतया चञ्चुजडिमा । अतस्ते शीतांशोरमृतलहरीमाम्लरुचय: पिबन्ति स्वच्छन्दं निशिनिशि भृशं काञ्जिकधिया ॥ ६३ ॥ अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा जपापुष्पच्छाया तव जननि जिह्वा जयति सा । यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥ ६४ ॥ रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभि- र्निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः । विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥ ६५ ॥ विपञ्च्या गायन्ती विविधमपदानं पशुपते- स्त्वयारब्धे वक्तुं चलितशिरसा साधुवचने । तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥६६॥ कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया गिरीशेनोदस्तं मुहुरधरपानाकुलतया । करग्राह्यं शंभोर्मुखमुकुरवृन्तं गिरिसुते कथंकारं ब्रूमस्तव चुबुकमौपम्यरहितम् ॥ ६७ ॥ भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् । स्वतः श्वेता कालागुरुबहुलजम्बालमलिना मृणालीलालित्यं वहति यदधो हारलतिका ॥ ६८ ॥ गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः । विराजन्ते नानाविधमधुररागाकरभुवां त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥ ६९ ॥ मृणालीमृद्वीनां तव भुजलतानां चतसृणां चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः । नखेभ्य: संत्रस्यन्प्रथममथनादन्धकरिपो- श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥ ७० ॥ नखानामुद्योतैर्नवनलिनरागं विहसतां कराणां ते कान्तिं कथय कथयामः कथमुमे । कयाचिद्वा साम्यं भजतु कलया हन्त कमलं यदि क्रीडल्लक्ष्मीचरणतललाक्षारसचणम् ॥ ७१ ॥ समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् । यदालोक्याशङ्काकुलितहृदयो हासजनक: स्वकुम्भौ हेरम्ब: परिभृशति हस्तेन झडिति ॥ ७२ ॥ अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ न संदेहस्पन्दो नगपतिपताके मनसि नः । पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥ ७३ ॥ वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः समारब्धां मुक्तामणिभिरमलां हारलतिकाम । कुचाभोगो बिम्बाधररुचिभिरन्त: शबलितां प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥ ७४ ॥ तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः पयःपारावार: परिवहति सारस्वतमिव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव य- त्कवीनां प्रौढानामजनि कमनीयः कवयिता ॥ ७५ ॥ हरक्रोधज्वालावलिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्तां जानीते तव जननि रोमावलिरिति ॥७६॥ यदेतत्कालिन्दीतनुतरतरङ्गाकृति शिवे कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् । विमर्दादन्योन्यं कुचकलशयोरन्तरगतं तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥७७॥ स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता- कलावालं कुण्डं कुसुमशरतेजोहुतभुजः । रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते बिलद्वारं सिद्धेगिरिशनयनानां विजयते ॥७८॥ निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव । चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥७९॥ कुचौ सद्यः स्विद्यत्तटघटितकूर्पासभिदुरौ कषन्तौ दोर्मूले कनककलशाभौ कलयता । तव त्रातुं भङ्गादलमिति वलग्रं तनुभुवा त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥ ८०॥ गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा- न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे । अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं नितम्बप्राग्भार: स्थगयति लधुत्वं नयति च ॥ ८१ ॥ करीन्द्राणां शुण्डान्कनककदलीकाण्डपटली- मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवति । सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते विधिज्ञे जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥ ८२ ॥ पराजेतुं रुद्रं द्विगुणशरगभौ गिरिसुते निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत । यदग्ने दृश्यन्ते दशशरफला: पादयुगली- नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥ ८३ ॥ श्रुतीनां मूर्धानो दधति तव यौ शेखरतया ममाप्येतौ मातः शिरसि दयया धेहि चरणौ । ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥ ८४ ॥ नमोवाकं ब्रूमो नयनरमणीयाय पदयो- स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते । असूयत्यत्यन्तं यदभिहननाय स्पृहयते पशूनामीशानः प्रमदवनकङ्केलितरवे ॥ ८५ ॥ मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं ललाटे भर्तारं चरणकमले ताडयति ते चिरादन्तःशल्यं दहनकृतमुन्मूलितवता तुलाकोटिक्काणैः किलिकिलितमीशानरिपुणा ॥ ८६ ॥ हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ निशायां निद्राणं निशि चरमभागे च विशदौ । वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥ ८७ ॥ पदं ते कीर्तीनां प्रपदमपदं देवि विपदां कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् । कथं वा बाहुभ्यामुपयमनकाले पुरभिदा यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥ ८८ ॥ नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि- स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥ ८९ ॥ ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी- ममन्दं सौन्दर्यप्रकरमकरन्दं विकिरति । तवास्मिन्मन्दारस्तबकसुभगे यातु चरणे निमज्जन्मज्जीवः करणचरण: षट्चरणताम् ॥ १० ॥ पदन्यासक्रीडापरिचयमिवारब्धुमनसः स्खलन्तस्ते खेलं भवनकलहंसा न जहति । अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित- च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥ २१॥ गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः । त्वदीयानां भासां प्रतिफलनरागारुणतया शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥ ९२ ॥ अराला केशेषु प्रकृतिसरला मन्दहसिते शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे । भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये जगत्त्रातुं शंभोर्जयति करुणा काचिदरुणा ॥ ९३ ॥ कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् । अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥ ९४ ॥ पुरारातेरन्त:पुरमसि ततस्त्वच्चरणयोः सपर्यामर्यादा तरलकरणानामसुलभा । तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥ ९५ ॥ कलत्रं वैधात्रं कतिकति भजन्ते न कवयः श्रियो देव्याः को वा न भवति पति: कैरपि धनैः । महादेवं हित्वा तव सति सतीनामचरमे कुचाभ्यामासङ्ग्ः कुरवकतरोरप्यसुलभः ॥ ९६ ॥ गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् । तुरीया कापि त्वं दुरधिगमनिःसीममहिमा महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥ ९७ ॥ कदा काले मातः कथय कलितालक्तकरसं पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् । प्रकृत्या मूकानामपि च कविताकारणतया कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥ ९८॥ सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते रते: पातिव्रत्यं शिथिलयति रम्येण वपुषा । चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः परानन्दाभिख्यं रसयति रसं त्वद्भजनवान् ॥ ९९ ॥ प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना । स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥१००॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ सौन्दर्यलहरी संपूर्णा ॥
Reading & reflection

This hymn addresses Devi through devotional names and imagery. Begin with a quiet breath, read one verse at a time, and leave a short pause between stanzas.

Text edition & attribution

Complete text of सौन्दर्यलहरी on Sanskrit Wikisource, revision 289332, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Devi readings