ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Subrahmanya / Stotram
SUBRAHMANYA · STOTRAM

Subrahmanya Bhujangam

సుబ్రహ్మణ్యభుజఙ్గమ్

Subrahmanya Bhujangam is a traditional Subrahmanya devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

सदा बालरूपापि विघ्नाद्रिहन्त्री महादन्तिवक्त्रापि पञ्चास्यमान्या । विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं कापि कल्याणमूर्तिः ॥१॥ न जानामि शब्दं न जानामिचार्थं न जानामि पद्यं न जानामि गद्यम् । चिदेका षडास्या हृदि द्योतते मे मुखान्निःसरन्ते गिरश्चापि चित्रम् ॥२॥ मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् । महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥३॥ यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव । इति व्यञ्जयन्सिन्धुतीरे य आस्ते तमीडे पवित्रं पराशक्ति पुत्रम् ॥४॥ यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा- स्थैवापदः सन्निधौ सेवतां मे । इतीवोर्मिपङ्गक्तीर्नृणां दर्शयन्तं सदा भावये हृत्सरोजे गुहं तम् ॥५॥ गिरौ मन्निवासे नरा येऽधिरूढा- स्तदा पर्वते राजते तेऽधिरूढाः । इतीव ब्रुवन् गन्धशैलाधिरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥६॥ महाम्भोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले । गुहायां वसन्तं स्वभासा लसन्तं जनार्तिं हरन्तं श्रयामो गुहं तम् ॥७॥ लसत्वर्णगेहे नृणां कामदोहे सुमस्तोमसंछन्नमाणिक्यमञ्चे । समुद्यत्सहस्रार्कतुल्यप्रकाशं सदा भावये कार्तिकेयं सुरेशम् ॥८॥ रणद्धंसके मञ्जुलेऽत्यन्तशोणे मनोहारिलावण्यपीयूषपूर्णे । मनःषट्पदो मे भवत्क्लेशतप्तः सदा मोदतां स्कन्द ते पादपद्मे ॥९॥ सुवर्णाभदिव्याम्बरैर्भासमानां क्वणत्किङ्किणीमेखलाशोभमानाम् । लसद्धेमपट्टेन विद्योतमानां कटिं भावये स्कन्द ते दीप्यमानाम् ॥१०॥ पुलिन्देशकन्याघनाभोगतुङ्ग्- स्तनालिङ्गनासक्तकाशमीररागम् । नमस्यामहं तारकरे तवोरः स्वभक्तावने सर्वदा सानुरागम् ॥११॥ विधौकॢप्तदण्डान्स्वलीलाधृताण्डा- न्निरस्तेभशुण्डान्द्विषत्कालदण्डान् । हतेन्द्रारिषण्डाञ्जगत्राणशौण्डान् सदा ते प्रचण्डाञ्श्रये बाहुदण्डान् ॥१२॥ सदा शारदाः षण्मृगाङ्का यदि स्युः समुद्यन्त एव स्थिताश्चेत्समन्तात् । सदा पूर्णबिम्बाः कलङ्कैश्च हीना- स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥१३॥ स्फुरन्मन्दहासैः सहंसानि चञ्च- त्कटाक्षावलीभृङ्गसंघोज्ज्वलानि । सुधास्यान्दिबिम्बाधराणीशसूनो तवालोकये षण्मुखाम्भोरुहाणि ॥१४॥ विशालेषु कर्णान्तदीर्घेष्वजस्त्रं दयास्यन्दिषु द्वादशस्वीक्षणेषु । मयीषत्कटाक्षः सकृत्पातितश्चे- द्भवेते दयाशील का नाम हानिः ॥१५॥ सुताङ्गोद्भवो मेऽसि जीवेति षड्धा जपन्मन्त्रमीशो मुदा चिघ्रते यान् । जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥१६॥ स्फुरद्रत्नकेयूरहाराभिराम- श्चलत्कुण्डलश्रीलसद्गण्डभागः । कटौ पीतवासाः करे चारु शक्तिः पुरस्तान्ममास्तां पुरारेस्तनूजः ॥१७॥ इहायाहि वत्सेति हस्तान्प्रसार्या- ह्वयत्यादराच्छंकरे मातुरङ्कात् । समुत्पत्य तातं श्रयन्तं कुमारं हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥१८॥ कुमारेशसूनो गुह स्कन्द सेना- पते शक्तिपाणे मयूराधिरूढ । पुलिन्दात्मजाकान्त भक्तार्तिहारिन् प्रभो तारकरे सदा रक्ष मां त्वम् ॥१९॥ प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे । प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुहं त्वम् ॥२०॥ कृतान्तस्य दूतेषु चण्डेषु कोपा- द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु । मयूरं समारुह्य मा भैरिति त्वं पुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥२१॥ प्रणम्यासकृतपादयोस्ते पतित्वा प्रसाद्य प्रभो पार्थयेऽनेकवारम् । न वक्तुं क्षमोहं तदानीं कृपाब्धे न कार्यान्तकाले मनागप्युपेक्षा ॥२२॥ सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारकः सिंहवक्त्रश्च दैत्यः । ममान्तर्हृदिस्थं मनःक्लेशमेकं न हंसि प्रभो किं करोमि क्व यामि ॥२३॥ अहं सर्वदा दुःखभारावसन्नो भवान् दीनबन्धुस्त्वदन्यं न याचे । भवद्भक्तिरोधं सदा क्लृप्तबाधं ममाधिं दुतं नाशयोमासुत त्वम् ॥२४॥ अपस्मारकुष्टक्षयार्शःप्रमेह- ज्वरन्मादिगुल्मादिरोगा महान्तः । पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्यक्षणात्तरकारे द्रवन्ते ॥२५॥ दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति- र्मुखे मे पवित्रं सदा तच्चरित्रम् । करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे सन्तु लीना ममाशेषभावाः ॥२६॥ मुनीनामुतहो नृणां भक्तिभाजा- मभीष्टप्रदाः सन्ति सर्वत्र देवाः । नृणामन्त्यजानामपि स्वार्थदाने गुहाद्देवमन्यं न जाने न जाने ॥२७॥ कलत्रं सुता बन्धुवर्गः पशुर्वा नरो वाथ नारी गृहे ये मदीयाः । यजन्तो नमन्तः स्तुवन्तो भवन्तं स्मरन्तश्च ते सन्तु सर्वे कुमार ॥२८॥ मृगाः पक्षिणो दंशका ये च दुष्टा- स्तथा व्याधयो बाधका ये मदङ्गे । भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे विनश्यन्तु ते चूर्णितक्रौञ्चशैले ॥२९॥ जनित्री पिता च स्वपुत्रापराधं सहेते च किं देवसेनाधिनाथ । अहं चातिबालो भवान् लोकतातः क्षमस्वापराधं समस्तं महेश ॥३०॥ नमः केकिने शक्तये चापि तुभ्यं नमश्चाग तुभ्यं नमः कुक्कुटाय । नमः सिन्धवे सिन्धुदेशाय तुभ्यं पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥३१॥ जयानन्दभूमञ्जयापारधाम- ञ्जयामोघकीर्ते जयानन्दमूर्ते । जयानन्द सिन्धो जयाशेषबन्धो जय त्वं पिता मुक्तिदानेशसूनो ॥३२॥ भुजङ्गाख्यवृत्तेन क्लृप्तं स्तवं यः पठेत्भक्तियुक्तो गुहं संप्रणम्य । स पुत्रान्कलत्रं धनं दीर्घमायु- र्लभेत्स्कन्दसायुज्यमन्ते नरः सः ॥३३॥ ॥ श्रीसुब्रह्मण्यभुजङ्गं सम्पूर्णम् ॥
Reading & reflection

This hymn addresses Subrahmanya through devotional names and imagery. Begin with a quiet breath, read one verse at a time, and leave a short pause between stanzas.

Text edition & attribution

Complete text of सुब्रह्मण्यभुजङ्गम् on Sanskrit Wikisource, revision 38125, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Subrahmanya readings