ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Narasimha / Stotram
NARASIMHA · STOTRAM

Narasimha Stotram

నృసింహస్తోత్రమ్

Narasimha Stotram is a traditional Narasimha devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

श्री गणेशाय नमः । ब्रह्मोवाच । नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ॥ १॥ श्रीरुद्र उवाच । कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ २॥ इन्द्र उवाच । प्रत्यानीताः परम भवता त्रायतां नः स्वभागा दैत्याक्रान्तं हृदयकमलं त्वद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ ३॥ ऋषय ऊचुः । त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज । तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ ४॥ पितर ऊचुः । श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिल धर्मगोप्त्रे ॥ ५॥ सिद्धा ऊचुः । यो नो गतिं योगसिद्धामसाधुरहारषीद्योगतपोबलेन । नानादर्पं तं नखैर्निर्ददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६॥ विद्याधरा ऊचुः । विद्यां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः । स येन संख्ये पशुबद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ ७॥ नागा ऊचुः । येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः । तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ८॥ मनव ऊचुः । मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ ९॥ प्रजापतय ऊचुः । प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षानुशेते जगन्मङ्गलं सत्त्वमूर्तेऽवहारः ॥ १०॥ गन्धर्वा ऊचुः । वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः । स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ११॥ चारणा ऊचुः । हरे तवांग्घ्रिपङ्कजं भवापवर्गमाश्रिताः । यदेव साधु हृच्छयस्त्वयाऽसुरः समापितः ॥ १२॥ यक्षा ऊचुः । वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीतः पञ्चतां पञ्चविंशः ॥ १३॥ किम्पुरुषा ऊचुः । वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वर । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ १४॥ वैतालिका ऊचुः । सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तां व्यनैषीद्भृशमेष दुर्जनो दिष्ट्या हतस्ते भगवन्यथामयः ॥ १५॥ किन्नरा ऊचुः । वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिताः । भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ १६॥ विष्णुपार्षदा ऊचुः । अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म । सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ॥ १७॥ ॥ इति श्रीमद्भागवतान्तर्गते सप्तमस्कन्धेऽष्टमध्याये नृसिंहस्तोत्रं सम्पूर्णम् ॥
Reading & reflection

This hymn addresses Narasimha through devotional names and imagery. Begin with a quiet breath, read one verse at a time, and leave a short pause between stanzas.

Text edition & attribution

Complete text of नृसिंहस्तोत्रम् on Sanskrit Wikisource, revision 92989, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Narasimha readings