ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Navagraha / Stotram
NAVAGRAHA · STOTRAM

Navagraha Stotram

నవగ్రహస్తోత్రమ్

Navagraha Stotram is a traditional Navagraha devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

॥ अथ नवग्रहस्तोत्रम् ॥ ॥ रविः ॥ जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥ ॥ सोमः ॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥ ॥ मङ्गलः ॥ धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्। कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥ ॥ बुधः ॥ प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥ ॥ गुरुः ॥ देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्। बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥ ॥ शुक्रः ॥ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥ ॥ शनिः ॥ नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्। छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥७॥ ॥ राहुः ॥ अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्। सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्॥८॥ ॥ केतुः ॥ पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्। रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥ ॥ फलश्रुतिः ॥ इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः। दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति॥ नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्। ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम्॥ ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः। ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः॥ ॥ इति श्रीव्यासविरचितम् आदित्यादिनवग्रहस्तोत्रं सम्पूर्णम् ॥ ॥ अथ नवग्रहपीडाहरस्तोत्रम् ॥ ॥ रविः ॥ ग्रहाणामादिरादित्यो लोकरक्षणकारकः। विषमस्थानसम्भूतां पीडां हरतु मे रविः॥१॥ ॥ सोमः ॥ रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः। विषमस्थानसम्भूतां पीडां हरतु मे विधुः॥२॥ ॥ मङ्गलः ॥ भूमिपुत्रो महातेजा जगतां भयकृत्सदा। वृष्टिकृद्दृष्टिहर्ता च पीडां हरतु मे कुजः॥३॥ ॥ बुधः ॥ उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः। सूर्यप्रियकरो विद्वान् पीडां हरतु मे बुधः॥४॥ ॥ गुरुः ॥ देवमन्त्री विशालाक्षः सदा लोकहिते रतः। अनेकशिष्यसम्पूर्णः पीडां हरतु मे गुरुः॥५॥ ॥ शुक्रः ॥ दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः। प्रभुस्ताराग्रहाणां च पीडां हरतु मे भृगुः॥६॥ ॥ शनिः ॥ सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः। दीर्घाचारः प्रसन्नात्मा पीडां हरतु मे शनिः॥७॥ ॥ राहुः ॥ अनेकरूपवर्णेश्च शतशोऽथ सहस्रदृक्। उत्पातरूपो जगतां पीडां हरतु मे तमः॥८॥ ॥ केतुः ॥ महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः। अतनुश्चोर्ध्वकेशश्च पीडां हरतु मे शिखीः॥९॥ ॥ इति ब्रह्माण्डपुराणोक्तं नवग्रहपीडाहरस्तोत्रं सम्पूर्णम् ॥ —
Reading & reflection

This hymn addresses Navagraha through devotional names and imagery. Begin with a quiet breath, read one verse at a time, and leave a short pause between stanzas.

Text edition & attribution

Complete text of नवग्रहस्तोत्रम् on Sanskrit Wikisource, revision 409357, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Navagraha readings