ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Shiva / Stotram
SHIVA · STOTRAM

Shiva Bhujangam

శివభుజఙ్గమ్

Shiva Bhujangam is a traditional Shiva devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

॥शिवभुजङ्गम्॥ गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । कनद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ १ ॥ अनाद्यन्तमाद्यं परं तत्त्वमर्थं चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महः शैवमीडे ॥ २ ॥ स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं मनोहारिसर्वाङ्गरत्नोरुभूषम् । जटाहीन्दुगङ्गास्थिशंयाकमौलिं पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥ ३ ॥ शिवेशानतत्पूरुषाघोरवामा- दिभिः पञ्चभिर्हृन्मुखैः षड्‌भिरङ्गैः । अनौपंय षट्‌त्रिंशतं तत्त्वविद्या- मतीतं परं त्वां कथं वेत्ति को वा ॥ ४ ॥ प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमहःश्याममर्धम् । गुणस्यूतमेतद्वपुः शैवमन्तः स्मरामि स्मरापत्तिसंपत्तिहेतुम् ॥ ५ ॥ स्वसेवासमायातदेवासुरेन्द्रा- नमन्मौलिमन्दारमालाभिषक्तम् । नमस्यामि शंभो पदांभोरुहं ते भवांभोधिपोतं भवानीविभाव्यम् ॥ ६ ॥ जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकंपिन्विपन्नार्तिहारिन् । महःस्तोममूर्ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥ विरूपाक्ष विश्वेश विश्वादिदेव त्रयीमूल शंभो शिव त्र्यंबक त्वम् । प्रसीद स्मर त्राहि पश्यावमुक्त्यै क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥ ८ ॥ महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति । ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं ततो मे दयाशील देव प्रसीद ॥ ९ ॥ त्वदन्यः शरण्यः प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् । न चेत्ते भवेद्भक्तवात्सल्यहानि- स्ततो मे दयालो सदा सन्निधेहि ॥ १० ॥ अयं दानकालस्त्वहं दानपात्रं भवानेव दाता त्वदन्यं न याचे । भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥ पशुं वेत्सि चेन्मां तमेवाधिरूढः कलङ्कीति वा मूर्ध्नि धत्से तमेव । द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥ १२ ॥ न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश । तथाहि प्रसन्नोऽसि कस्यापि कान्ता- सुतद्रोहिणो वा पितृद्रोहिणो वा ॥ १३ ॥ स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन्महेशावलंबे । त्रसन्तं सुतं त्रातुमग्रे मृकण्डो- र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥ १४ ॥ शिरो दृष्टिहृद्रोगशूलप्रमेह- ज्वरार्शोजरायक्ष्महिक्काविषार्तान् । त्वमाद्यो भिषग्भेषजं भस्म शंभो त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥ १५ ॥ दरिद्रोऽस्म्यभद्रोऽस्मि भग्रोऽस्मि दूये विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहम् । भवान्प्राणिनामन्तरात्मासि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् ॥ १६ ॥ त्वदक्ष्णोः कटाक्षः प्रतेत्त्र्यक्ष यत्र क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते । किरीटस्फुरच्चामरच्छत्रमाला- कलाचीगजक्षौमभूषाविशेषैः ॥ १७ ॥ भवान्यै भवायापि मात्रे च पित्रे मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने । शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै शिवायांबिकायै नमस्त्र्यंबकाय ॥ १८ ॥ भवद्गौरवं मल्लघुत्वं विदित्वा प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् । शिवात्मानुभावस्तुतावक्षमोऽहं स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥ १९ ॥ यदा कर्णरन्ध्रं व्रजेत्कालवाह- द्विषत्कण्ठघण्टाघणात्कारनादः । वृषाधीशमारुह्य देवौपवाह्यं तदा वत्स मा भीरिति प्रीणय त्वम् ॥ २० ॥ यदा दारुणाभाषणा भीषणा मे भविष्यन्त्युपान्ते कृतान्तस्य दूताः । तदा मन्मनस्त्वत्पदांभोरुहस्थं कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥ २१ ॥ यदा दुर्निवारव्यथोऽहं शयानो लुठन्निःश्वसन्निःसृताव्यक्तवाणिः । तदा जह्नुकन्याजलालङ्कृतं ते जटामण्डलं मन्मनोमन्दिरं स्यात् ॥ २२ ॥ यदा पुत्रमित्रादयो मत्सकाशे रुदन्त्यस्य हा कीदृशीयं दशेति । तदा देवदेवेश गौरीश शंभो नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥ २३ ॥ यदा पश्यतां मामसौ वेत्ति नास्मा- नयं श्वास एवेति वाचो भवेयुः । तदा भूतिभूषं भुजङ्गावनद्धं पुरारे भवन्तं स्फुटं भावयेयम् ॥ २४ ॥ यदा यातनादेहसन्देहवाही भवेदात्मदेहे न मोहो महान्मे । तदा काशशीतांशुसङ्काशमीश स्मरारे वपुस्ते नमस्ते स्मराणि ॥ २५ ॥ यदापारमच्छायमस्थानमद्भि- र्जनैर्वा विहीनं गमिष्यामि मार्गम् । तदा तं निरुन्धन्कृतान्तस्य मार्गं महादेव मह्यं मनोज्ञं प्रयच्छ ॥ २६ ॥ यदा रौरवादि स्मरन्नेव भीत्या व्रजांयत्र मोहं महादेव घोरम् । तदा मामहो नाथ कस्तारयिष्य- त्यनाथं पराधीनमर्धेन्दुमौले ॥ २७ ॥ यदाऽश्वेतपत्रायतालङ्घ्यशक्तेः कृतान्ताद्भयं भक्तवात्सल्यभावात् । तदा पाहि मां पार्वतीवल्लभान्यं न पश्यामि पातारमेतादृशं मे ॥ २८ ॥ इदानीमिदानीं मृतिर्मे भवित्री- त्यहो सन्ततं चिन्तया पीडितोऽस्मि । कथं नाम मा भून्मृतौ भीतिरेषा नमस्ते गतीनां गते नीलकण्ठ ॥ २९ ॥ अमर्यादमेवाहमाबालवृद्धं हरन्तं कृतान्तं समीक्ष्यास्मि भीतः । मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा- द्भवानीपते निर्भयोऽहं भवानि ॥ ३० ॥ जराजन्मगर्भाधिवासादिदुःखा- न्यसह्यानि जह्यां जगन्नाथ देव । भवन्तं विना मे गतिर्नैव शंभो दयालो न जागर्ति कं वा दया ते ॥ ३१ ॥ शिवायेति शब्दो नमःपूर्व एष स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची । महेशान मा गान्मनस्तो वचस्तः सदा मह्यमेतत्प्रदानं प्रयच्छ ॥ ३२ ॥ त्वमप्यंब मां पश्य शीतांशुमौलि- प्रिये भेषजं त्वं भवव्याधिशान्तौ । बहुक्लेशभाजं पदांभोजपोते भवाब्धौ निमग्नं नयस्वाद्य पारम् ॥ ३३ ॥ अनुद्यल्ललाटाक्षिवह्निप्ररोहै- रवामस्फुरच्चारुवामोरुशोभैः । अनङ्गभ्रमद्भोगिभूषाविशेषै- रचन्द्रार्धचूडैरलं दैवतैर्नः ॥ ३४ ॥ अकण्ठेकलङ्कादनङ्गेभुजङ्गा- दपाणौकपालादफालेनलाक्षात् । अमौळौशशाङ्कादवामेकलत्रा- दहं देवमन्यं न मन्ये न मन्ये ॥ ३५ ॥ महादेव शंभो गिरीश त्रिशूलिं- स्त्वदीयं समस्तं विभातीति यस्मात् । शिवादन्यथा दैवतं नाभिजाने शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३६ ॥ यतोऽजायतेदं प्रपञ्चं विचित्रं स्थितिं याति यस्मिन्यदेवान्तमन्ते । स कर्मादिहीनः स्वयज्ज्योतिरात्मा शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥ ३७ ॥ किरीटे निशेशो ललाटे हुताशो भुजे भोगिराजो गले कालिमा च । तनौ कामिनी यस्य तत्तुल्यदेवं न जाने न जाने न जाने न जाने ॥ ३८ ॥ अनेन स्तवेनादरादंबिकेशं परां भक्तिमासाद्य यं ये नमन्ति । मृतौ निर्भयास्ते जनास्तं भजन्ते हृदंभोजमध्ये सदासीनमीशम् ॥ ३९ ॥ भुजङ्गप्रियाकल्प शंभो मयैवं भुजङ्गप्रयातेन वृत्तेन क्लृप्तम् । नरः स्तोत्रमेतत्पठित्वोरुभक्त्या सुपुत्रायुरारोग्यमैश्वर्यमेति ॥ ४० ॥ ॥शिवभुजङ्गं संपूर्णम्॥
Reading & reflection

Shiva hymns use images of the Ganga, the moon, sacred ash, and stillness. Read at an unhurried pace and reflect on the images as you go.

Text edition & attribution

Complete text of शिवभुजङ्गम् on Sanskrit Wikisource, revision 38061, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Shiva readings