Home / Shiva / StotramSHIVA · STOTRAM
Shiva Manasa Puja
శివమానసపూజా
Shiva Manasa Puja is a traditional Shiva devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.
||श्री शिवमानसपूजा ||
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलम्
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥
इत्येवं हरपूजने प्रतिदिनं यो वा त्रिसन्ध्यं स्मरेत्
सेवाश्लोकचतुष्टयं प्रतिदिनं पूजा हरेर्मानसि ।
सोऽयं सौख्यमवाप्नुयाद्द्युतिधरं साक्षद्धरेर्दर्शनं
वासस्तेन महावसानसमये कैलासलोकं गता ॥
करचरणकृतं वाक्कायजं कर्मजं वा ।
श्रवणनयनजं वा मानसं वापराधम् ॥
विदितमविदितं वा सर्वमेतत् क्षमस्व ।
जय जय करुणाब्धे श्री महादेव शम्भो ॥
Reading & reflection
Shiva hymns use images of the Ganga, the moon, sacred ash, and stillness. Read at an unhurried pace and reflect on the images as you go.
Text edition & attribution
Complete text of शिवमानसपूजा on Sanskrit Wikisource, revision 334324, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.
Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.
More Shiva readings