ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Shiva / Stotram
SHIVA · STOTRAM

Shiva Mahimna Stotram

శ్రీశివమహిమాస్తోత్రమ్

Shiva Mahimna Stotram is a traditional Shiva devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

महिम्नः पारं ते, परमविदुषो यज्ञसदृशी स्तुतिर्ब्रह्मादीना मपि तदवसन्नास्त्वयि गिरः । अथावाच्यः सर्वः स्वमतिपरिणामधि गृणन् ममाप्येषः स्तोत्रे हर निरपवादः परिकरः ॥१॥ अतीतः पंथानं तव च महिमा वाड् मनसयो रतद्व्यावृत्यायं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥ मधुस्फीता वाचः परमममृतं निर्मितवत स्तव ब्रह्मन्किं वा गपि सुरगुरोर्विस्मयपदम् । मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥ तवैश्चर्यें यत्तद् जगदुदयरक्षाप्रलयकृत त्रयी वस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु । अभव्यानामस्मिन् वरद रमणीयामरमणीं विहंतुं व्योक्रोशीं विदधत इहै के जडधियः ॥४॥ किमिहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च । अतकर्यैश्वर्येत्वय्यनवसरदुःस्थो हतधियः कुतर्कोडयंकांश्चि न्मुखरयति मोहाय जगतः ॥५॥ अजन्मानो लोकाः किमवयवंवतोडपि जगता मधिष्ठातारं किं भवविधिरनादत्य भवति । अनीशो वा कुर्याद भुवनजनने कः परिकरो यतो मंदास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥ त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च । रुचीनां वैचित्र्या दजुकुटिलनानापथजुषां नृणामेको गम्य स्त्वमसि पयमामर्णव इव ॥७॥ महोक्षः खड्वांगं परशुरजिनं भस्म फणिनः कपालं चेतीय त्तव वरद तंत्रोपकरणम् । सुरास्तां तामृद्धिं दधति तु भव द्भ्रूप्रणिहितां नहि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥ ध्रुवं कश्चित्सर्वं सकलमपरस्त्वद्ध्रुवमिदं परो ध्रोव्याध्रोव्ये जगति गदति व्यस्तविषये । समस्तेडप्येतस्मि न्पुरमथन तैर्विस्मित इव स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥ तवैश्वर्यं यत्ना द्यदुपरि विरिंचिर्हरिरधः परिच्छेतुं याता वनलमनलस्कंधवपुषः । ततो भक्तिश्रद्धा भरगुरुगृणद्भ्यां गिरिश यत् स्वयं तस्थे ताभ्यां तव किमनुवृत्तिने फलति ॥१०॥ अयत्नादापाद्य त्रिभुवनमवैरव्यतिकरं दशास्यो यद्बाहू नभृन रणकंडुपरवशान् । शिरःपद्मश्रेणी रचितचरणांभोरुहबलेः स्थिरायास्त्वद्भक्ते स्त्रिपुरहर विस्फूर्जितमिदम् ॥११॥ अमुष्य त्वत्सेवा समधिगतसारं भुजवनं बलात्कैलासेडपि त्वदधिवसतौ विक्रमयतः । अलभ्यापाताले डप्यलसचलितांगुष्ठशिरसि प्रतिष्ठा प्रत्वय्या सीद्ध्रुवमुपचितो मुह्यति खलः ॥१२॥ यदद्धिं सुत्राम्णो वरद परमोच्चैरपि सती मधश्चक्रे बाणः परिजनविधेयस्त्रिभुवनः । न तच्चित्रं तस्मिंन्वरिवसितरि त्वच्चरणयो र्न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥१३॥ अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा विधेयस्यासीद्यस्त्रिनयविषं संह्रतवतः । स कल्माषः कण्ठे तव न कुरुते न श्रियमहो विकारोडपि श्लाध्यो भुवनभयभंगव्यसनिनः ॥१४॥ असिद्धार्था नैव कवचिदपि सदेवासुरनरे निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः । स पश्यन्नीश त्वामितरसरुरसाधारणमभूत् स्मरः स्मर्तव्यात्मा नहि वशिषु पथ्यः परिभवः॥१५॥ मही पादाधाताद् व्रजति सहसा संशयपदं पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् । मुहुद्यौंर्दोस्थ्यं यात्यनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥१६॥ वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः प्रवाहो वारां यः पृषतलघुदष्टः शिरसि ते । जगद् द्वीपाकारं जलधिवलयं तेन कृतमि त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥१७॥ रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाडगे चन्द्रार्कौ रथचरणपाणिः शर इति । दिधक्षोस्ते कोडयं त्रिपुरतृणमाडम्बरविधिर् विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥१८॥ हरिस्ते साहस्त्रं कमलबलिमाधाय पदयो यदिकोने तस्मिन् निजमुदहरन्नेत्रकमलम् । गतो भकत्युद्रेकः परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥१९॥ क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते । अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदानप्रतिभुवं श्रुतौ श्रद्धां बद्ध्वा दटपरिकरः कर्मसु जनः ॥२०॥ क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः । क्रतुभ्रंषस्त्वत्तः क्रतुफलविधानव्यसनिनो ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥ प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा । धनुष्पाणेर्यातं दिवमपि सपत्राकृतंममुं त्रसन्तं तेडद्यापि त्यजति न मृगव्याधरभसः ॥२२॥ स्वलावण्याशंसाधृतधनुषमह्नाय तृणवत् पुरः प्लुष्टं दष्टवा पुरमथन पुष्पायुधमपि । यदि स्त्रैणं देवी यमनिरत देहार्धघटना दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥२३॥ स्मशानेष्वाक्रीडा स्महर पिशाचाः सहचरा श्चिताभस्मालेपः स्तगपि नृकरोटीपरिकरः । अमंगल्यं शीलं तव भवतु नामैवमखिलं तथाडपि स्मर्तृणां वरद परमं मंगलमसि ॥२४॥ मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः प्रह्रष्यद्रोमाणः प्रमदसलिलोत्संगितदशः । यदालोक्याह्लादं ह्रद इव निमज्ज्यामृतमये दद्यत्यंतस्तत्त्वं क्रिमपि यमिनस्तत्किल भवान् ॥२५॥ त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च । परिच्छिन्नामेवं त्वयिपरिणता बिभ्रतु गिरं न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥२६॥ त्रयीं तिस्त्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा नकाराद्यैर्वर्णै स्त्रिभिरभिदधत्तीर्ण विकृतिः । तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥२७॥ भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां स्तथां भीमशानाविति यदभिधानाष्टकमिदम् । अमुष्मिन्प्रत्येकं प्रवितरति देव श्रुतिरपि प्रियायास्मै धाम्ने प्रणिहितनमस्योडस्मि भवते ॥२८॥ नमो नेदिष्ठाय प्रियदवदविष्ठाय च नमो नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः । नमोवर्षिष्ठाय त्रिनयन यविष्ठा च नमः नमः सर्वस्मै ते तदिदमितिशर्वाय च नमः ॥२९॥ बहलरजसे विश्वोत्पत्तौ भवाय नमो नमः प्रबलतमसे तत्संहारे हराय नमो नमः । जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥३०॥ कृशपरिणति चेतः क्लेशवश्यं क्व चेदं क्व च तव गुणसीमोल्लंधिनी शश्वद्रद्धिः इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयोस्ते वाक्य-पुष्पोपहारम् ॥३१॥ असितगिरिसमंस्यात् कज्जलं सिंधुपात्रे सुरतरुवरशाखा लेखिनी पत्रमुर्वि । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणाना मीश पारं न याति ॥३२॥ असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य । सकलगणवरिष्ठः पुष्पदन्ताभिधानो रुचिरमलधुवृत्तैः स्तोत्रमेतच्चकार ॥३३॥ अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत् पठति परमभक्त्या शुद्धचित्तः पुमान्यः । स भवति शिवलोके रुद्रतुल्यस्तथाडत्र प्रचुरतरधनायुः पुत्रवान्कीर्तिमांश्च ॥३४॥ महेशान्नापरो देवो महिम्नो नापरा स्तुतिः । अघोरान्नापरो मंत्रो नास्ति तत्त्वं गुरोः परम् ॥३५॥ दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥ कुसुमदशननामा सर्वगन्धर्वराजः शिशुशशिधरमौलेर्देव देवस्य दासः । स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात् स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्नः ॥३७॥ सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं पठति यदि मनुष्यः प्रांजलिर्नान्यचेताः । व्रजति शिवसमीपं किन्नरैः स्तूयमानः स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥३८॥ आसमाप्तमिदं स्तोत्रं पुण्यं गंधर्वभाषितम् । अनौपम्यं मनोहारिशिवमीश्वरवर्णनम् ॥३९॥ इत्येषा वाडमयी पूजा श्रीमच्छंकरपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥४०॥ तव तत्त्वं न जानामि कीद्शोडसि महेश्वर । याद्सोडसि महादेव ताद्शाय नमो नमः ॥४१॥ एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥४२॥ श्री पुष्पदंतमुखपंकजनिर्गतेन स्तोत्रेंण किल्बिहरेण हरप्रियेण । कंठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥४३॥
Reading & reflection

Shiva hymns use images of the Ganga, the moon, sacred ash, and stillness. Read at an unhurried pace and reflect on the images as you go.

Text edition & attribution

Complete text of श्रीशिवमहिमास्तोत्रम् on Sanskrit Wikisource, revision 40743, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Shiva readings