ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Shiva / Stotram
SHIVA · STOTRAM

Bilvashtakam

శ్రీబిల్వాష్టకమ్

Bilvashtakam is a traditional Shiva devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारम् एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः । तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारम् एकबिल्वं शिवार्पणम् ॥ ३॥ काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४॥ तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा । पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम् ॥ ५॥ तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् । कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ६॥ दन्त्यश्वकोटिदानानि अश्वमेधशतानि च । कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ७॥ सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् । यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८॥ अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् । तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९॥ एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् । महादेवस्य पूजार्थम् एकबिल्वं शिवार्पणम् ॥ १०॥ अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११॥ ॥ ॐ तत्सत् ॥
Reading & reflection

Shiva hymns use images of the Ganga, the moon, sacred ash, and stillness. Read at an unhurried pace and reflect on the images as you go.

Text edition & attribution

Complete text of श्रीबिल्वाष्टकम् on Sanskrit Wikisource, revision 36836, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Shiva readings