ॐDaily PoojaYOUR DAILY DEVOTIONAL COMPANION♡ Saved prayers
Home / Ganesha / Stotram
GANESHA · STOTRAM

Ganesha Kavacham

శ్రీగణేశకవచమ్

Ganesha Kavacham is a traditional Ganesha devotional reading. This page presents the full text of the linked Wikisource edition, with Telugu and IAST transliterations.

श्रीगणेशाय नमः .. गौर्युवाच . एषोऽतिचपलो दैत्यान्बाल्येऽपि नाशयत्यहो . अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम .. १.. दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः . अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि .. २.. मुनिरुवाच . ध्यायेत्सिंहहतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं पङ्बाहुकं सिद्धिदम् . द्वापारे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम् तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा .. ३.. विनायकः शिखां पातु परमात्मा परात्परः . अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः .. ४.. ललाटं कश्यपः पातु भृयुगं तु महोदर . नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ .. ५.. जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः . वाचं विनायकः पातु दन्तान् रक्षतु विघ्नहा .. ६.. श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः . गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जजयः .. ७.. स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः . हृदयं गणनाथस्तु हेरंबो जठरं महान् .. ८.. धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः . लिङ्गं गुह्यं सदा पातु वक्रतुण्डो महाबलः .. ९.. गणक्रीडो जानुसङ्घे उरू मङ्गलमूर्तिमान् . एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु .. १०.. क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः . अङ्गुलीश्च नखान्पातु पद्महसोऽरिनाशनः .. ११.. सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु . अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु .. १२.. आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु . प्राच्यां रक्षतु बुद्धीश आग्नेयां सिद्धिदायकः ..१३.. दक्षिणास्यामुमापुत्रो नैरृत्यां तु गणेश्वरः . प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः .. १४.. कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः . दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् .. १५.. राक्षसासुरवेतालग्रहभूतपिशाचतः . पाशाङ्कुशधरः पातु रजःसत्त्वतमः स्मृतिः .. १६.. ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्ति तथा कुलम् . वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् .. १७.. सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा . कपिलोऽजादिकं पातु गजाश्वान्विकटोऽवतु .. १८.. भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः . न भयं जायते तस्य यक्षरक्षःपिशाचतः .. १८.. त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् . यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् .. २०.. युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् . मारणोच्चाटकर्षस्तम्भमोहनकर्मणि .. २१.. सप्तवारं जपेदेतद्दिनानामेकविंशतिम् . तत्तत्फलवाप्नोति साधको नात्रसंशयः ..२२.. एकविंशतिवारं च पठेत्तावद्दिनानि यः . कारागृहगतं सद्योराज्ञा वध्यं च मोचयेत् .. २३.. राजदर्शनवेलायां पठेदेतत्त्रिवारतः . स राजसं वशं नीत्वा प्रकृतीश्च सभां जयेत् .. २४.. इदं गणेशकवचं कश्यपेन समीरितम् . मुद्गलाय च तेनाथ माण्डव्याय महर्षये .. २५.. मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् . न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् .. २६.. यस्यानेन कृता रक्षा न बाधास्य भवेत्क्वचित् . राक्षसासुरवेतालदैत्यदानवसम्भवा .. २७.. इति श्रीगणेशपुराणे उत्तरखण्डे बालक्रीडायां षडशीतितमेऽध्याये गणेशकवचं सम्पूर्णम्
Reading & reflection

Ganesha hymns are often read at the beginning of a new undertaking. Settle your attention before reciting, and allow a brief pause at the end of each verse.

Text edition & attribution

Complete text of श्रीगणेशकवचम् on Sanskrit Wikisource, revision 38086, contributed by Wikisource editors. Text and generated transliterations are shared under CC BY-SA 4.0.

Changes: interface material removed, spacing normalized, and Telugu and IAST transliterations generated. The source may contain transcription variants; automated transliterations have not been independently proofread. No source verses have been intentionally shortened.

More Ganesha readings